|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.106. अध्यायः 106
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कालकवृक्षीयनिदेशेन कौसल्यस्य पुना राज्यप्राप्त्यादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
राजोवाच। 12-106-0x(5619)(68922)
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्।
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम्॥ 12-106-1(68923)
पुरस्तादेव भगवन्मयैतदपवर्जितम्।
येन पापं न शङ्केत यद्वा कृत्स्नं हितं भवेत्॥ 12-106-2(68924)
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः।
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते॥ 12-106-3(68925)
मुनिरुवाच। 12-106-4x(5620)
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे।
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शनः॥ 12-106-4(68926)
उभयोरेव साह्यार्थे यतिष्ये तव तस्य च।
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्॥ 12-106-5(68927)
त्वादृशं हि कुले जातभनृशंसं बहुश्रुतम्।
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्॥ 12-106-6(68928)
यस्त्वं प्रव्राजितो राज्याद्व्यसनं चोत्तमं गतः।
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्॥ 12-106-7(68929)
आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः।
अथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्॥ 12-106-8(68930)
भीष्म उवाच। 12-106-9x(5621)
तत आहूय वैदेहं मुनिर्वचनमब्रवीत्।
अयं राजकुले जातो विदिताभ्यन्तरो मम॥ 12-106-9(68931)
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा।
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः॥ 12-106-10(68932)
तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि।
न राज्यमनमात्येन शक्यं शास्तुममित्रहन्॥ 12-106-11(68933)
अमात्य शुद्ध एव स्याद्बुद्धिसंपन्न एव वा।
तस्माच्चैव भयं राज्ञः पश्य राज्यस्य योजनम्॥ 12-106-12(68934)
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी।
तदा राजपुत्रोऽयं सतां मार्गमनुष्ठितः।
असंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः॥ 12-106-13(68935)
संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान्॥ 12-106-14(68936)
यद्ययं प्रतियुद्ध्येत स्वकर्म क्षत्रियस्य तत्।
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे॥ 12-106-15(68937)
त्वं अपि प्रतियुद्ध्येथा विजिगीषुर्व्रते स्थितः।
अयुद्ध्वैव नियोगान्मे वशे कुरु हिते स्थितः॥ 12-106-16(68938)
स त्वं धर्ममवेक्षस्व हित्वा लोभमसांप्रतम्।
न च कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि॥ 12-106-17(68939)
नैव नित्यं जयस्तात नैव नित्यं पराजयः।
तस्माज्जयश्च भोक्तव्यो भोक्तव्यश्च पराजयः॥ 12-106-18(68940)
आत्मन्यपि च संदृश्यावृभौ जयपराजयौ।
निःशेषकारिणां तात निःशेषकरणाद्भयम्॥ 12-106-19(68941)
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्।
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च॥ 12-106-20(68942)
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः।
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत्क्षमम्॥ 12-106-21(68943)
यद्यद्वचनमुक्तोऽस्मि करिष्यामि च तत्तथा।
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा॥ 12-106-22(68944)
ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत्।
धर्मतो बुद्धितश्चैव बलेन च जितं मया॥ 12-106-23(68945)
अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम।
आत्मानमनवज्ञाय जितवद्वर्ततां भवान्॥ 12-106-24(68946)
नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम्।
नावमन्ये जयामीति जितवद्वर्ततां भवान्॥ 12-106-25(68947)
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात्।
ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान्॥ 12-106-26(68948)
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा।
प्राद्यार्ध्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत्॥ 12-106-27(68949)
ददौ दुहितरं चास्मै रत्नानि विविधानि च।
एष राज्ञां परो धर्मः समौ जयपराजयौ॥ ॥ 12-106-28(68950)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि ष़डधिकशततमोऽध्यायः॥ 106॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-106-5 तस्य विदेहस्य॥ 12-106-6 त्वादृशा राजानं लब्ध्वा अमात्यकर्म को न कुर्वीताऽपितु सर्वोऽपि मादृशः कुर्वीतैवेत्यर्थः॥ 12-106-7 उत्तमं महृत्॥ 12-106-14 गणाञ्शत्रुसङ्घान्॥ 12-106-17 असांप्रतमनुचितम्॥ 12-106-24 जितवत्प्राप्तजयइव॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|